अलसः बालः
षष्ठः पाठः
अभ्यास-प्रश्नाः
प्रश्नः-1-उच्चारणं कुरुत-
निर्देशः- विद्यार्थी स्वयं उच्चारण करें।
प्रश्न:2. अधोलिखितानां पदानां वर्णविच्छेदं प्रदर्शयत-
उत्तरम् –
- अचिन्तयत् – अ + च् + इ+ न्+ त्+ अ+ य्+अ+त्।
- कन्दुकेन – क्+अ+न्+द्+उ+क्+ए+न्+अ
- मकरन्द – म् +अ+ क् +अ + र्+ अ+न् +द् +अ
- पिपीलिका – प्+ इ +प्+ई+ ल्+इ +क् +आ
- पण्डितश्च- प् + अ +ण् +ड् +इ+त् +अ+श्+ च् +अ
प्रश्न:3. उचितं पदं चित्वा रिक्तस्थानं पूरयत-
जनजागरणाय, अपरेण, अपश्यत्, स्वकार्यम्
उत्तरम् – 1. सः (स्वकार्यम्) कदापि न अकरोत
- अहं (जनजागरणाय) गच्छामि।
- सः उद्याने कपोतान् (अपश्यत्)।
- त्वं (अपरेण) सह क्रीड।
प्रश्न:4. प्रश्नानाम् उत्तराणि लिखत-
प्रश्न: (क) बालकः कीदृशः आसीत् ?
उत्तरम्- बालकः अलसः आसीत्।
प्रश्न: (ख) बालकः कुत्र अगच्छत्?
उत्तरम् -बालकः उद्यानम् अगच्छत्।
प्रश्न: (ग) शाखायां सः कम् अपश्यत्?
उत्तरम्- शाखायां सः एकं काकम् अपश्यत्।
प्रश्न: (घ) बालकः काकं किम् अवदत् ?
उत्तरम् -बालकः काकं अवदत् “हे काक! आगच्छ, मया सह क्रीड।”
प्रश्न: (ङ) कपोतः बालकं किम् अवदत् ।
उत्तरम्- कपोतः बालकम् अवदत् – “अधुना वयं भोजनाय क्षेत्रं गच्छामः।”
प्रश्न: (च) बालकः अध्ययनं कृत्वा किम् अभवत् ?
उत्तरम्- बालकः अध्ययनं कृत्वा पण्डितः अभवत्।
प्रश्न:5.पक्षिणां तेषां गुणानां मेलनं कुरुत-
उत्तरम् -काकः. जनजागरणम्
कोलिलः. पञ्चमस्वरगानम्
मयूरः. नृत्यम्
शुक: अनुकरणम्
वक: ध्यानमग्नम्
हंसः. नीरक्षीरविवेचनम्
प्रश्न:6.शुद्ध-विभक्तिपदं चित्वा रिक्तस्थानानि पूरयत-
उत्तरम् –
(क) बालकः नित्यं पाठशालां न अगच्छत् । (पाठशालां / पाठशालातः)
(ख) सः उद्यानं गत्वा कन्दुकेन सह अक्रीडत्। (कन्दुकेन / कन्दुकम्)
(ग) सः उद्याने कपोतान् अपश्यत्। (कपोतान् । कपोतस्य)
(घ) अहं जनजागरणाय गच्छामि।(जनजागरणाय / जागरणं)
प्रश्न:7 निम्नांकित-क्रियापदानां धातु-लकार-पुरुष-वचनानि च लिखित्वा
पूरयत-
क्रिया धातु लकार पुरुष वचन
अस्ति अस् लट् प्रथम एकवचन
गच्छामः गम् लट् उत्तम बहुवचन
अकरोत् कृ लङ् प्रथम एकवचन
करोषि कृ लट् मध्यम एकवचन
क्रीडिष्यामि क्रीड् लृट् उत्तम एकवचन
अपठत् पठ् लङ् प्रथम एकवचन