उत्तराखण्डस्य इतिहासकारः
अष्टमः पाठः
अभ्यास–प्रश्नाः
प्रश्न: 1. प्रश्नानाम् उत्तराणि लिखत-
(क) शिवप्रसाद डबरालः ‘चारणः’ कः अभवत् ?
उत्तरम् – शिवप्रसाद डबरालः ‘चारणः’ प्रख्यातः साहित्यकारः, सम्पादकः, पुरातत्त्ववेता, इतिहासकारः, ज्योतिर्विद्, भाषाविद्, प्राध्यापकः च अभवत्।
(ख) चारणस्य जन्म कदा अभवत् ?
उत्तरम्- चारणस्य जन्म 1912 तमे ख्रीष्टाब्दौ नवम्बरमासस्य द्वादश दिनाङ्के अभवत्।
(ग) शिवप्रसाद डबरालः स्वस्य ‘चारणः’ नाम कथं सार्थकम् अकरोत्?
उत्तरम्-शिवप्रसाद डबरालः वीररस-प्रधानकाव्य-लेखनेन तथा निरन्तरं पुरातात्त्विक-भ्रमणकारणेन स्वस्य ‘चारण’ इति नाम सार्थकम् अकरोत्।
(घ) शिवप्रसादडबरालः स्वजीवने कानि कार्याणि अकरोत् ?
उत्तरम- शिवप्रसाद डबरालः स्वजीवने अनेकानेक-काव्यनाटकादीनि अलिखत्, बालानां कृते वीरवन्दना नाम अन्त्याक्षरिपुस्तिकां, उत्तराखण्डस्य इतिहासं च अरचयत्। वीरगाथा प्रकाशनस्य, बृहत्पुरातत्त्वसंग्रहालयस्य पुस्तकालयस्य च स्थापनां अकरोत्।
(ङ) शिवप्रसाद डबरालः ‘चारणः’ कदा दिवंगतः?
उत्तरम् – शिवप्रसाद डबरालः ‘चारणः’ नवम्बरमासस्य 24 दिनाङ्के 1999 तमे ख्रीष्टाब्दौ दिवंगतः।
प्रश्न: 2. निम्नांकित-शब्दानां सन्धिविच्छेदम् अवगच्छत-
एवमेव = एवम् + एव
अनेकानेक = अनेक + अनेक
पुस्तकालयस्य = पुस्तक + आलयस्य
प्रश्न: 3. भूतकालिक-क्रियापदानां सूची निर्माणं कुरुत-
यथा-
अभवन् आसीत् अलभत्
अभवत् अरचयत् अकरोत्
अलिखत्
प्रश्न: 4. पाठस्य घटनाक्रमानुसारेण पंक्तिं निर्धारयत-
(क) अतएव जनैः एतं ‘इन्साइक्लोपीडिया ऑफ उत्तराखण्ड’ अपि उच्यते।
(ख) सः एकविंशतिखण्डेषु उत्तराखण्डस्य इतिहासम् अलिखत्।
(ग) अस्य पिता कृष्णदत्तः डबरालः कर्तव्यनिष्ठः, प्रधानाध्यापकः आसीत्।
(घ) उत्तराखण्डः रत्नप्रसूता धरा अस्ति।
उत्तरम्-
(क) उत्तराखण्डः रत्नप्रसूता धरा अस्ति।
(ख) अस्य पिता कृष्णदत्तः डबरालः कर्तव्यनिष्ठः, प्रधानाध्यापकः आसीत्।
(ग) सः एकविंशतिखण्डेषु उत्तराखण्डस्य इतिहासम् अलिखत्।
(घ) अतएव जनैः एनं ‘इन्साइक्लोपीडिया ऑफ उत्तराखण्ड’ अपि उच्यते।
प्रश्नः-5 पठन्तु अवगच्छन्तु च-
उत्तराखण्डस्य प्रमुख-संस्कृत-साहित्यकाराः | तेषां प्रमुख-कृतयः |
प0 लोकरत्नपंत ‘गुमानी’ | गंगाशतकम्, जगन्नाथाष्टकम्, अंग्रेजराज्यवर्णनं |
शशिधरभट्टः | वीरतरंगणी |
हरिकृष्णदौर्गादत्तिः | शतश्लोकी रघुवंशम् |
प0 सदानन्द डबरालः | नरनारायणीयम्, रासविलासः, दिव्यचरितम् |
भरतज्योतिकरायः | मानोदय, रामायणप्रदीपम् |
आचार्य बालकृष्ण भट्टः | कनकवंशमहाकाव्यम् |
आचार्य उर्वीदत्तडंगवालः | एडवर्डवंश महाकाव्यम् |
डॉ.शिवप्रसाद भारद्वाजः | भारतसन्देशः, महावीरचरितम्, हूणपराजयम् |
गतिविधि – विद्यार्थी अपने शिक्षक के मार्गदर्शन में पाठ्यपुस्तक में दी गई गतिविधियां सम्पादित करें।
नवमपाठ-‘प्रार्थनापत्रम्’ के प्रश्नों के उत्तरों के लिए यहां क्लिक करें-
बालपृष्ठम्
निर्देश-चक्रिका से वाक्य बनाते हुए खेलिए |
-
- लवस्य जनकः रामः।
- दशरथस्य पुत्रः रामः।
- रामस्य सेवकः हनुमान्।
- भरतस्य अग्रज: राम:
- रामस्य शत्रुः रावणः।
- अयोध्यानगरस्य नृपः रामः।
- सुग्रीवस्य मित्रम् रामः।
- विभीषणस्य प्रभुः रामः।