उत्तराखण्डीय-समकालिन-संस्कृत-स्तोत्रकाव्यानां प्रवृत्तयः

उत्तराखण्डीय-समकालिन-संस्कृत-स्तोत्रकाव्यानां प्रवृत्तयः

         ‘स्तोत्र’ शब्दः संस्कृतस्य ‘ष्टु’ धातोः निष्पद्यते, यस्यार्थो भवति प्रशंसाकरणम्। संस्कृतसाहित्ये कस्यचिद्देवस्य वा कस्याश्चिद्देव्याः स्तुत्यां लिखितं काव्यं स्तोत्रम् इत्युच्यते (स्तूयते अनेन इति स्तोत्रम्)। स्तुत्यात्मकं इदं काव्यं  स्तोत्रकाव्येऽन्तर्भवति। महाकवि-कालिदासानुसारं “स्तोत्रं कस्य न तुष्टये” (अर्थात् निखिलेऽपि विश्वे नास्ति तादृशो जीवो यः  स्तुत्या प्रसन्नो न भवेत्) अत एव विभिन्न-देवानां प्रसन्नार्थं वेदेषु पुराणेषु काव्येषु च  विविधानि सूक्तानि स्तोत्राणि च सन्ति। अनेके भक्ताः स्वेष्ट-देवानाम् आराधनार्थं विभिन्नानि स्तोत्राण्यरचयन्। एतादृशानि विभिन्नानि स्तोत्राणि ‘स्तोत्ररत्नावली’ इति नामाभिधेये ग्रन्थे संकलितानि सन्ति। कतिचन सुप्रसिद्धानि स्तोत्राणि अधोलिखितानि सन्ति, तद्यथा-शिवताण्डवस्तोत्रम्, शिवमहिम्नस्तोत्रम्, शिवापराधक्षमापन-स्तोत्रम्, श्रीशिवपञ्चाक्षर-स्तोत्रम्, द्वादशज्योतिर्लिङ्गस्तोत्रम्,   रामरक्षास्तोत्रम्, देव्यपराधक्षमापनस्तोत्रम्, श्रीभगवतीस्तोत्रम्, महिषासुरमर्दिनी-स्तोत्रम्, श्रीसरस्वतीस्तोत्रम्, सङ्कटनाशनगणेशस्तोत्रम्,  मारुतिस्तोत्रम्, चर्पटपञ्जरिकास्तोत्रम्, द्वादशपञ्जरिकास्तोत्रम्, विष्णुसहस्रनामस्तोत्रम्, लक्ष्मीसहस्रनामस्तोत्रम्,   नागस्तोत्रम्, अपामार्जनस्तोत्रम्, एकात्मतास्तोत्रम् चेत्यादीनि ।

             स्तोत्रकाव्यलेखनस्य इयं परम्परा ऋग्वेदिककालात् आरभ्य अद्यावधिपर्यन्तं अजस्ररूपेण प्रवहमाना वर्तते। देशकालपरिस्थितेः प्रभावात् स्तोत्रकाव्यस्वरूपेऽपि विभिन्नानि परिवर्तनानि अभवन्।सम्पूर्णे भारते आधुनिक-संस्कृतरचनाकाराः यथा अन्यसाहित्यिकविधासु रचनाः कृत्वा संस्कृतसाहित्यस्य श्रीवृद्धिं कुर्वन्ति तथा स्तोत्रकाव्यविधायामपि। एवमेव उत्तराखण्डीयसमकालिनसंस्कृतरचनाकाराः अपि विभिन्नानि स्तोत्राणि विरच्य स्तोत्रकाव्यपरम्परां सम्पोषयन्ति। कतिचन उत्तराखण्डीय-समकालिन-स्तोत्रकाराः तत्कृतानि  प्रमुखानि स्तोत्राणि अधोलिखितानि सन्ति, तद्यथा- डॉ0जगदीशप्रसादसेमवालः-श्री महागणपतिसहस्रनामनिर्वचनकारिका,श्रीशिवसहस्रनामावलीनिर्वचनकारिका,श्रीविष्णुसहस्रनामावलीनिर्वचनकारिका,श्रीसूर्यसहस्रनामनिर्वचनकारिका, श्रीशिवस्तुतिः, श्रीदुर्गामहास्तोत्रम्, श्रीयक्षराजस्तोत्रम्,  कविरत्नश्रीकृष्णसेमवालः-श्री केदारनाथसुप्रभातम्, कालीमठस्था शिवा(कालीस्तवः), शक्तिसौरभम्, आचार्यः श्रीधरप्रसादः बलूनी- श्री बद्रीनाथस्तोत्रम्, श्री केदारनाथस्तोत्रम्, डॉ0 कीर्तिवल्लभ शक्टा- स्तवनस्तवकम्, डॉ0 जीतरामभट्टः- भक्तिवल्लरी च इति।

उपर्युक्तानि उत्तराखण्डीय-समकालिन-संस्कृतस्तोत्रकाव्यानां प्रवृत्तेः समीक्षणक्रमे कतिचन स्तोत्राणि क्रमशः समीक्षयामः-

(क).श्रीगणपतिसहस्रनामनिर्वचनकारिका-डॉ.जगदीशप्रसाद-सेमवाल-द्वारा विरचितम् इदं काव्यं स्तोत्रकाव्येऽन्तर्भवति। काव्येऽस्मिन् गणेशपुराणस्य उपासनाखण्डे महागणपतिप्रोक्तस्य गणेशसहस्रनामस्तोत्रस्य निर्वचनं कृतं वर्तते। रचनाकारस्यायं कश्चन नूतनः प्रयासः यत्र सहस्रनामस्तोत्रं न लिख्यते अपितु सहस्रनामस्तोत्रे आगतानां भगवतः गणेशस्य नामानां निर्वचनं क्रियते। अत्र श्री गणपतिसहस्रनामनिर्वचनकारिकायाम् एकसहस्रश्लोकाः सन्ति। प्रत्येकं श्लोकः भगवतः गणेशस्य भिन्न-भिन्ननाम्नः निर्वचनं करोति। उदाहरणार्थं श्रीमहागणपतिसहस्रनामनिर्वचनकारिकायाः एकं श्लोकं पश्यामः यः भगवतः गणेशस्य ‘प्रतापी’ नाम्नः निर्वचनं करोति, तद्यथा- 

प्रतापयति देवानां शत्रून् दैत्यान् निरन्तरम्।

पराक्रमेण सम्पन्नः प्रतापीत्यभिधीयते॥181॥(पृ.स.-37)

(ख).श्रीसूर्यसहस्रनामनिर्वचनकारिका- इदमपि स्तोत्रकाव्यं डॉ0 जगदीशप्रसादसेमवालद्वारा लिखितं वर्तते। श्रीसूर्यसहस्रनामनिर्वचनकारिकायां भविष्यपुराणस्य सप्तमकल्पे प्रोक्तस्य श्रीभगवत्सूर्यसहस्रनामस्तोत्रस्य निर्वचनं कृतं वर्तते। स्तोत्रकाव्येऽस्मिन् अष्टाधिक-एकशतम्(108) श्लोकाः सन्ति। एकस्मिन् श्लोके सूर्यस्य एकस्य नाम्नः निर्वचनम्, एवं क्रमेण अष्टाधिक-एकशतश्लोकेषु सूर्यस्य अष्टाधिकैकशतनामानां निर्वचनं कृतं वर्तते। सूर्यस्य ‘महातेजा’ इति नाम्नः निर्वचनम् उदाहरणार्थं पश्यामः, तद्यथा-

इतरेषु समस्तेषु  तेजस्विषु ग्रहेष्वपि।

यस्य तेजो महत्सोऽयं महातेजा इति स्मृतः॥342॥                                                               (पृ.सं-71)

(ग).श्री केदारनाथसुप्रभातम्- उत्तराखण्डस्थितं भगवन्तं केदारं प्रति भारतीयप्रधानमन्त्रिणः नरेन्द्रमोदिनः  अनन्यां भक्तिं वीक्ष्य प्रभावितः ‘कविरत्न श्री कृष्ण सेमवालः’ एतत्स्तोत्रकाव्यमरचयत्। भाषादृष्ट्या इदम् अत्यन्तं सरलमस्ति। संस्कृतेतरजनोऽपि अल्पप्रयासेन अस्योच्चारणं कर्तुं समर्थो भवितुं शक्यते। निर्दर्शनार्थम् एकं पद्यम् अत्रापि प्रस्तूयते, तद्यथा-

 भालेऽर्धचन्द्रशकलं प्रतिभाति यस्य

 कण्ठे च राजति सदा ननु नागनाथः।

 गङ्गा विभाति विमलास्य सदा जटायां

 सोऽयं शिवो मम करोतु च सुप्रभातम्॥15॥(केदा0, पृ.सं-15) 

(घ).भक्तिवल्लरी- एकाधिक-एकशतश्लोकेषु निबद्धम् इदं स्तोत्रकाव्यं डॉ0 जीतरामभट्टद्वारा विरचितं वर्तते। अस्मिन् स्तोत्रकाव्ये श्रीगणेश-सूर्य-चन्द्र-मङ्गल-बुध-वृहस्पति-शुक्र-शनि-महाकाल-शिव इत्यादीनां स्तुतयः सन्ति। विविधछन्दोपबद्धासु एतासु स्तुतिषु प्रयुक्ता भाषा स्वेष्टदेवं प्रति भावाभिव्यक्तौ बाधां न जनयति। यतोहि अत्र लेखनावसरे स्तोत्रकारस्य दृष्टिः स्वपाण्डित्यप्रदर्शनापेक्षया सरसपदावलीमाध्यमेन भावाभिव्यक्तौ अधिका प्रतीयते।

(ड़).स्तवन-स्तवकम्- पं0 ताराकरस्मृतिमालायां लिखितमिदं स्तोत्रकाव्यं डॉ0 कीर्तिवल्लभशक्टा अरचयत्। अस्मिन् स्तोत्रकाव्ये आञ्चलिकतायाः प्रभावकारणात् स्तोत्रकारस्य स्तोत्राणां विषयाः स्थानीय-देवी-देवताः सन्ति। यथा- हिंङ्गला देवी, चम्पादेवी, अखिलतारिणी, भीमादेवी, पूर्णागिरी, ब्रह्मदेव, वाराही देवी, नन्दा देवी, शिलादेवी(मछियाड़-चम्पावत), क्रान्तीश्वर-महादेव(क्रान्तेश्वर-चम्पावत), नागार्जुन-नागनाथ(चम्पावत) इत्यादयः। अस्मिन् स्तोत्रकाव्ये कतिचनदेवानां स्तुतयः एकस्मिन्नैव श्लोके सन्ति। कतिचनदेवानां स्तुतयः पञ्चके लिखताः सन्ति। यथा- महाकाली पञ्चकम्, विशालाक्षी पञ्चकम्, बालीश्वर पञ्चकम्, दीप्तेश्वरपञ्चकञ्च।

(च).कालीमठस्था शिवा- डॉ. श्रीकृष्णसेमवालद्वारा कालीमठस्थां शिवाम्(कालीम्) आश्रित्य लिखितेऽस्मिन् स्तोत्रकाव्ये एकपञ्चाशत्(51) पद्यानि सन्ति। एतेषु पद्येषु भगवत्याः काल्याः अत्यन्त-उदात्तगुणोपेता स्तुतिरस्ति।

(छ).शक्तिसौरभम्- एतन्नामकं स्तोत्रकाव्यं डॉ0 श्रीकृष्णसेमवाल द्वारा विरचितं वर्तते। अस्मिन् स्तोत्रकाव्ये ‘ईश प्रार्थना, वाणी वन्दना, गणनाथाय नमो नमः, हनुमत्सुप्रभातम्, कालीमठस्था शिवा, कालिकाकालकास्था, जननि जीवनं मङ्गलायते, पीताम्बरायै नमः, वैष्णोदेवी स्तवः, पातु शाकम्भरी माम्, कात्यायनीस्तवः, ज्वाल्पादेवी स्तवः, वन्दे वह्निमतीम्, जय हे बिन्सरपूज्यनायक!, रामाय तस्मै नमः, कृष्णाय तस्मै नमः, शनि समाराधना एतानि  स्तोत्राणि सन्ति। विविधछन्दोपनिबद्धेषु एतेषु स्तोत्रेषु अल्पसमासोपेता पदावली प्रयुक्ता अस्ति।

(ज).श्रीबद्रीनाथस्तोत्रं केदारनाथस्तोत्रञ्च-  आचार्य-श्रीधरप्रसाद- बलूनी द्वारा एतद्वयं स्तोत्रं विरचितं वर्तते। प्रतिस्तोत्रम् अष्टाधिक-एकशतम्(108) श्लोकेषु उपनिबद्धमस्ति। एतयोः द्वयोः स्तोत्रकाव्ययोः वैशिष्ट्यमस्ति यत् अत्र सरलसंस्कृतभाषायां  लिखतैः पद्यैः सह सरलरीत्या हिन्द्यनुवादोऽपि पद्यरूपेण प्रस्तुतोऽस्ति। उदाहरणार्थं  बद्रीनाथस्तोत्रस्य एकं पद्यं हिन्द्यनुवादेन सह पश्यामः, तद्यथा-

त्वया जन्म दत्तं कृतं कर्म दृष्टं,फलं कर्मणां त्वं प्रदाता प्रसिद्धः।

महावाक्यमेतच्च पाथेयभूतं, भजे बद्रिनाथं भजे बद्रिनाथम्॥16                                                                        (पृ.सं-12)

तूने जनम हमको दिया, सब कर्म पथ दिखला दिया,

इन कर्म का फल भोग देने का प्रभाव जता दिया।

निज कर्म का फल भोगते सिद्धान्त हितकर मानकर,

हे बद्रिनाथ! विशाल! तेरे नित भजन करता रहूं॥16॥

(पृ.सं-11)

      एतयोः द्वयोः स्तोत्रयोः भाषा अतीव-सरला अस्ति। सामान्यजनोऽपि संस्कृतपद्योच्चारणे सक्षमो भवितुं शक्नोति। बद्रीनाथस्तोत्रकाव्यस्य प्रारम्भे प्रदत्तासु सम्मतिषु डॉ.श्रीकृष्ण सेमवालस्य सम्मतिः इयम् अस्ति, तद्यथा-‘ इस बदरीनाथ स्तोत्र के पाठ से सामान्य जन भी संस्कृत वाचन में सक्षम हो सकता है।’

               उपर्युक्तानि उत्तराखण्डीय-समकालिन-संस्कृत-स्तोत्राणि समीक्ष्य निष्कर्षकत्वेन इति वक्तुं  शक्यते यत् समकालिन-उत्तराखण्डीय-रचनाकाराः अपि विभिन्नान् देवान् आश्रित्य स्तोत्राणि रचयन्ति। आञ्चलिकतायाः प्रभावकारणात्  ते स्थानीय-देवी-देवान् आश्रित्य स्तोत्राणां रचनासु प्रवृत्ताः दृश्यन्ते। पुराणेषु उल्लिखित-सहस्रनामस्तोत्रेषु आगतानां देवानां नामानां निर्वचनस्य प्रवृत्तिरपि समकालिन-स्तोत्रकाव्ये प्रमुखतया द्रष्टुं  शक्यते। समकालिन-उत्तराखण्डीय-स्तोत्रकारः शतककाव्यविधामाश्रित्यापि शताधिकेषु वा शतपद्येषु स्तोत्राणि विरच्य स्वेष्टदेवं प्रति समर्पयति। एवमेव पञ्चपद्येषु स्तुतिं विधाय स्वेष्टदेवं प्रति स्वकीयं पञ्चकम् अपि अर्पयति। समकालिन-स्तोत्रेषु प्रामुख्येन अल्पसमासोपेतायाः पदावल्याः प्रयोगात् एतत्तु स्पष्टमेव यत् समकालिनस्तोत्रकारस्य दृष्टिः स्तोत्रेषु सरलभाषासंयोजनेऽधिका अस्ति। अस्यैव प्रत्यक्षोदाहरणे स्तः आचार्य श्रीधरप्रसादबलूनीद्वारा विरचिते श्रीबद्रीनाथस्तोत्रं केदारनाथस्तोत्रञ्च। ययोः संस्कृतपद्यैः सह हिन्दीपद्यान्यपि दत्तानि सन्ति। एतानि पद्यानि पठित्वा संस्कृतेतरसामान्यपाठकोऽपि भावावबोधनं कर्तुं शक्नोति इति।

 

सन्दर्भग्रन्थसूचीः

1.श्रीमहागणपतिसहस्रनामनिर्वचनकारिका-डॉ0 जगदीशप्रसाद सेमवालः, प्रकाशकः-Sapatrishi Publications, Plot No.24/9, Industrial Area, Phase-2, Near Tribune Chowk, Chandigarh. Tel-0172-5002591, E-mail-sapatrishi94@gmail.com,Website

www.sapatrishipublication.in

2.श्रीसूर्यसहस्रनामनिर्वचनकारिका-डॉ0 जगदीशप्रसाद सेमवालः, प्रकाशकः- Sapatrishi Publications, Plot No.24/9, Industrial Area, Phase-2, Near Tribune Chowk, Chandigarh. Tel-0172-5002591, E-mail- sapatrishi94@gmail.com,Website- www.sapatrishipublication.in 

3.श्री केदारनाथ सुप्रभातम्– कविरत्न श्रीकृष्णसेमवालः।

4.भक्तिवल्लरी– डॉ0 जीतराम भट्टः, प्रकाशकः- प्रकर्षः (पंजी0) संस्था टी-1864/2 देशबन्धु गुप्ता रोडः, झण्डेवालानम्, नवदेहली-110005, दूरभाषः 9968261378

5.स्तवनस्तवकम्-डॉ0कीर्तिवल्लभ शक्टा ‘शाकटायनः’, प्रकाशकः-डॉ0कीर्तिवल्लभ शक्टा, शारदा ज्योतिर्भवनम्, पं0 ताराकर-स्मृतिः, एम0 ई0 एस0 कैम्पस्य सम्मुखे, खर्ककार्की-चम्पावतम्(उत्तराखण्डः), दूरभाषः-9410502359,

6.कालीमठस्था शिवा(कालीस्तवः)- कविरत्न श्रीकृष्ण सेमवालः, प्रकाशकः- दर्शन सिंह नेगी, डॉल्फिन प्रिन्टो ग्रॉफिक्स, 4 ई/7, पाबला बिल्डिंग, झण्डेवालान एक्सटेंशन, नई दिल्ली-110055,

7.शक्तिसौरभम्-डॉ0 श्रीकृष्णसेमवालः।

8.श्रीबद्रीनाथस्तोत्रम्-आचार्य श्रीधर प्रसाद बलूनी, प्रकाशकः- बद्रीनाथ- मन्दिर-समितिः, संचालितः-गंगोत्री सामाजिक संस्था (पंजी.) दिल्ली कोशिक-इन्क्लेव, बी-ब्लाक, बुराड़ी, दिल्ली-110084.

9.केदारनाथस्तोत्रम्– आचार्य श्रीधर प्रसाद बलूनी, प्रकाशकः- शिव मन्दिर समिति, अद्वैत-स्वरूप-सन्यास-आश्रम श्रीपरमधाम, एम/1-4, शास्त्री नगर, दिल्ली-110052, दूरभाष- 23642424.

 शोधलेखक- डॉ.मधुसूदन सती

  दूरभाष सं- 9068429661

 N0te-उपर्युक्त शोधलेख  ‘शब्दार्णव’  शोधपत्रिका के July-December 2022 वाले अंक में प्रकाशित किया गया है जो कि सर्वाधिकार सुरक्षित है।   

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!