उत्तराखण्डस्य इतिहासकारः
अष्टमः पाठः
अभ्यास–प्रश्नाः
प्रश्न: 1. प्रश्नानाम् उत्तराणि लिखत-
प्रश्न:(क) शिवप्रसाद डबरालः ‘चारणः’ कः अभवत् ?
उत्तरम् – शिवप्रसाद डबरालः ‘चारणः’ प्रख्यातः साहित्यकारः, सम्पादकः, पुरातत्त्ववेता, इतिहासकारः, ज्योतिर्विद्, भाषाविद्, प्राध्यापकः च अभवत्।
प्रश्न: (ख) चारणस्य जन्म कदा अभवत् ?
उत्तरम् – चारणस्य जन्म 1912 तमे ख्रीष्टाब्दौ नवम्बर मासस्य द्वादश दिनाङ्के
अभवत्।
प्रश्न: (ग) शिवप्रसाद डबरालः स्वस्य ‘चारणः’ नाम कथं सार्थकम् अकरोत्?
उत्तरम् – शिवप्रसाद डबरालः वीररस-प्रधानकाव्य-लेखनेन पुरातात्विक-भ्रमणं
कृत्वा च स्व ‘चारणः’ नाम सार्थकम् अकरोत्।
प्रश्न: (घ) शिवप्रसाद डबरालः स्वजीवने कानि कार्याणि अकरोत् ?
उत्तरम् – शिवप्रसाद डबरालः अनेकानेक-काव्यनाटकादीनि अलिखत्,
वीरवन्दना नाम अन्त्याक्षरिपुस्तिकां, उत्तराखण्डस्य इतिहासं च अरचयत्।
वीरगाथा प्रकाशनस्य, पुरातत्वसंग्रहालयस्य पुस्तकालयस्य च स्थापनां
अकरोत्।
प्रश्न: (ङ) शिवप्रसाद डबरालः ‘चारणः’ कदा दिवंगतः?
उत्तरम् – शिवप्रसाद डबरालः ‘चारणः’ 1999 तमे ख्रीष्टाब्दौ नवम्बर मासस्य 14
दिनाङ्के दिवंगतः।
प्रश्न: 2. निम्नांकित शब्दानां सन्धिविच्छेदम् अवगच्छत-
एवमेव – एवम् + एव
अनेकानेक – अनेक + अनेक
पुस्तकालयस्य – पुस्तक + आलयस्य
प्रश्न: 3. भूतकालिक क्रियापदानां सूची निर्माण कुरुत-
अभवन् अरचयत् आसीत्
अभवत् अकरोत् अलभत्
प्रश्न: 4. पाठस्य घटनाक्रमानुसारेण पंक्तिं निर्धारयत-
(क) उत्तराखण्डः रत्नप्रसूता धरा अस्ति।
(ख) अस्य पिता कृष्णदत्त डबरालः कर्तव्यनिष्ठः, प्रधानाध्यापकः आसीत्।
(ग) सः एकविंशतिखण्डेषु उत्तराखण्डस्य इतिहासम् अलिखत्।
(घ) अतएव जनैः एतं ‘इन्साइक्लोपीडिया ऑफ उत्तराखण्ड’ अपि उच्यते।
- प्रश्न संख्या-5
निर्देश: विद्यार्थी स्वयं याद करें।
गतिविधि – निर्देशः-विद्यार्थी स्वयं करें।
बालपृष्ठम् – 2
निर्देश-चक्रिका से वाक्य बनाते हुए खेलिए |
- लवस्य जनकः रामः।
- दशरथस्य पुत्रः रामः।
- रामस्य सेवकः हनुमान्।
- भरतस्य अग्रज: राम:|
5 .रामस्य शत्रुः रावणः।
- अयोध्यानगरस्य नृपः रामः।
- सुग्रीवस्य मित्रम् रामः।
- विभीषणस्य प्रभुः रामः।