डॉ.कीर्तिवल्लभ शक्टा ‘शाकटायनः’

डॉ.कीर्तिवल्लभ शक्टा ‘शाकटायनः’

डॉ.कीर्तिवल्लभ शक्टा 'शाकटायनः'

       जन्मपरिचयः शिक्षा च- डॉ.कीर्तिवल्लभशक्टा उत्तराखण्डस्य समकालिक-संस्कृत-रचनाकारेषु यशस्वी विद्वान् अस्ति। अस्य संस्कृतसमुपासकस्य जन्म सन् 1954 ई. तमे वर्षे उत्तराखण्डस्य चम्पावतजनपदस्य ‘खर्ककार्की’ नाम्नि स्थानेऽभवत्। अस्य पितुर्नाम ‘पं. बदरीदत्त शक्टा तथा मातुर्नाम ‘श्रीमती कलावती देवी’ च आसीत्। अस्य विदुषः प्रारम्भिक-शिक्षा स्वग्रामे ‘खर्ककार्की’ चम्पावत एव अभवत्। तदनन्तरम् अयं विद्वान् पारम्परिक संस्कृते ‘साहित्याचार्य’ तथा ‘विद्यावारिधिः(पी.एच.डी.)’ एतौ उपाधी अवाप्तवान्। प्रवक्तृपदाद् अवकाशप्राप्तोऽयं साहित्यकारः सम्प्रति उत्तराखण्डे स्थित्वा संस्कृतसेवां कुरुते।

      कृतित्वम्अयं कविः साहित्यस्य विविधासु विधासु रचनाः कृत्वा संस्कृतस्य सेवामकरोत्। अस्य कवेः प्रामुख्येन निम्नलिखिताः रचनाः सन्ति-

        • राष्ट्रं भवति सर्वस्वम्(नाट्यग्रन्थः)
        • रंगवीथिः(नाट्यग्रन्थः)
        • सप्तकथाचक्रम्(कथासाहित्यम्)
        • स्तवन-स्तवकम्(स्तोत्र-काव्यम्)

 

अन्य लेखों को पढ़नें के लिए यहां क्लिक करें……

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!