डॉ.जीतराम भट्टः
जन्मपरिचयः शिक्षा च- अत्यन्तसरलस्वभावः डॉ.जीतराम भट्टः संस्कृतस्य परमविद्वानस्ति। अयं संस्कृतमातृसेवको निरन्तरं संस्कृतं सेवते। अस्य जन्म नवम्बरमासस्य नवमे(9) दिनाङ्के सन् 1962तमे ई. वर्षे उत्तराखण्डराज्यस्य रूद्रप्रयागजनपदान्तर्गते ‘भटवाड़ी’ नाम्नि ग्रामेऽभवत्। अस्य पिता ‘पं.ईश्वरी दत्त भट्टः’ माता च ‘श्रीमती कस्तूरी देवी’ आसीत्। अस्य कवेः प्राथमिक-शिक्षा अस्यैव ग्रामे अगस्त्यमुनौ जाता। तदनन्तरम् अनेन कविना उच्चशिक्षा सम्पूर्णानन्दसंस्कृतविश्वविद्यालये वाराणस्यां तथा हिमाचलविश्वविद्यालये शिमलायाञ्च प्राप्ता। अनेन कविना ‘शिक्षाशास्त्री’ उपाधिः राष्ट्रीय-संस्कृत-संस्थान-दिल्लीतः तथा ‘पी.एच.डी’ उपाधिश्च हेमवती नन्दन- बहुगुणा –गढ़वाल-विश्वविद्यालयात् श्रीनगरात् सम्प्राप्तः। अस्य कवेः शिक्षायाः क्षेत्रे शैक्षणिक-अनुभवो व्यापकत्वेनास्ति। अयं कविः स्वकीयमध्यापनकार्यम् उत्तराखण्डस्य ऋषिकेशनगरादारभ्य सम्प्रति विविधासु शैक्षणिक-संस्थासु स्वज्ञानकौशलेन संस्कृतसेवां कुरुते। संस्कृतभाषायाः प्रचार-प्रसारार्थम् अयं संस्कृतसमुपासकः अहर्निशं यतते। विविधानि संस्कृतशिबिराणि संस्कृतभाषायाः प्रसारार्थं चालयति अयं जनः।
कृतित्वम्– अस्य कवेः रचनासु निम्नलिखिताः सन्ति-
- अनुभूतिशतकम्,
- वैचित्र्यकाव्यम्,
- भक्तिवल्लरी,
- प्रसिद्धानि छन्दांसि मधुराणि गीतानि च,
- संस्कृते लोकप्रशासनं शासनप्रबन्धनं च,
- संस्कृतसाहित्ये पर्यावरणम्,
- श्रीमन्नारायणीयम्,
- संस्कृतसूक्तिकोशः,
- व्यवहारिकसंस्कृतशब्दमञ्जूषा,
- श्रीविन्सरस्तोत्ररत्नावली,
- श्रीद्वादशज्योतिर्लिङ्गस्तोत्रम् आदि।