डॉ. प्रकाशचन्द्रपन्तः ‘दीप’
जन्मपरिचयः शिक्षा च- विविधप्रतिभासम्पन्नोऽयं नवोदितः संस्कृत-कविः स्वकीय-सरस-रचना-कौशलेन पाठकानां हृदयमावर्जयति। अस्य रचनाकारस्य जन्म मार्च-मासस्य अष्टादशे(18) दिनाङ्के सन्1980 ई.तमे वर्षे उत्तराखण्डराज्यस्य चम्पावतजनपदान्तर्गते ‘छुलापै’ नामाभिधेये ग्रामेऽभवत्। अस्य पिता ‘श्री यशोधर-पन्तः’ माता च ‘श्रीमती माया देवी’ चास्ति। अस्य प्रारम्भिकी शिक्षा-दीक्षा स्वीये ग्रामेऽभवत्। उच्चमाध्यमिक-परीक्षामयं कविः माध्यमिकशिक्षापरिषद्-उत्तरप्रदेशात् द्वितीयश्रेण्यामुत्तीर्य शास्त्रि-परीक्षां सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयात् प्रथमश्रेण्यामुदतरत्। अनन्तरं ‘एम.ए.’ उपाधिः गुरुकुलकांगड़ी-विश्वविद्यालयात् तथा ‘साहित्याचार्यस्य’ उपाधिश्च उत्तराखण्डसंस्कृतविश्वविद्यालयात् प्रथमश्रेण्याम् प्राप्नोत्। विविधप्रतिभासम्पन्नोऽयं कविः द्वयोः विषययोः ‘विद्यावारिधिः(पी.एच.डी.)’ उपाधिं प्राप्नोत्। एकः विषयः ‘विविधासु शिक्षणसंस्थासु कार्यरतानां शिक्षकाणां संस्कृतं प्रत्यभिवृत्तिः, तस्याः व्यावहारिकानुप्रयोगस्य च तुलनात्मकमध्ययनम्’ द्वितीयः विषयः ‘उत्तराञ्चलस्य संस्कृतप्रतिभा एकमध्ययनम्’ च आसीत्। सम्प्रति अयं रचनाकारः उत्तराखण्डसंस्कृतविश्वविद्यालये शिक्षाशास्त्रविभागे प्राध्यापकपदम् अलङ्करोति।
कृतित्वम्– अनेन विरचिताः रचनाः अधोलिखिताः सन्ति, तद्यथा-
- गीतमाधुरी
- काव्यकुसुमाञ्जलिः
- विनोदिनी
- यौतुकस्यावधारणा (कथासङ्ग्रहः)
- अबला-सामर्थ्यम्,
- वञ्चितो बालः
- संस्कृतं राष्ट्रगौरवम् लघुनाटकम्
- द्रुमः पुत्रसमो मतः।