डॉ.हेमचन्द्र बेलवालः

डॉ.हेमचन्द्रबेलवालः

डॉ.हेमचन्द्र बेलवाल, उत्तराखण्ड के संस्कृत रचनाकार

      जन्मपरिचयः शिक्षा चउत्तराखण्डस्य नवोदितेषु संस्कृत-साहित्यकारेषु सुप्रसिद्धोऽयं कविः ‘डॉ.हेमचन्द्र बेलवालः’। अस्य कवेः जन्म जूनमासस्य विंशति-दिनाङ्के षडशीत्युत्तरनवदशतमे वर्षे(20-06-1986) उत्तराखण्डस्य अल्मोड़ा-जनपदे स्याल्दे-क्षेत्रान्तर्गते ‘वल्मरा’ नामाभिधेये ग्रामे अभवत्। अस्य पितुर्नाम ‘श्री रामदत्त बेलवालः’  तथा मातुर्नाम ‘श्रीमती कौशल्या देवी’ चास्ति। अस्य पत्न्याः नाम ‘श्रीमती उमा बेलवालः’ अस्ति। वर्तमानकालेऽयं कविः उत्तराखण्डराज्यस्य पिथौरागढ़-जनपदान्तर्गते राजकीय-घसाड-उच्च-माध्यमिक-विद्यालये संस्कृत-सहायकाध्यापक-पदे कार्यरतोऽस्ति।

      कृतित्वम्- कविरयं सततं स्वरचनाकौशलेन संस्कृतसेवां कुरुते। कवेरस्य प्रकाशित-रचनासु निम्नलिखिताः प्रमुखाः सन्ति, तद्यथा-

  • परिवर्तनकाव्यम्(2015)(परिवर्तनशतकम्,नवसृष्टिशतकम्,वानरराज्यम्)
  • देवभूमिग्रामशतकम्(2014)

अप्रकाशित-रचनाः-

  • विद्यार्थीजीवनशतकम्,
  • सुशासनशतकम्,
  • शैशवशतकम्,
  • विमानयात्राशतकम्

अन्य लेखों को पढ़नें के लिए यहां क्लिक करें……

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!