रसदेवताः
श्रृङ्गारो विष्णुदैवत्यो हास्यः प्रमथदैवतः।
रौद्रो रुद्राधिदैवत्यः करुणो यमदैवतः।।
वीभत्सस्य महाकाल: कालदेवो भयानक:।
वीरो महेन्द्रदेव: स्यादद्भुतो ब्रह्मदैवतः।।
रसवर्णाः
श्यामो भवति श्रृङ्गार: सितो हास्यः प्रकीर्तितः।
कपोतः करुणश्चैव रक्तो रौद्रः प्रकीर्तितः।।
गौरो वीरस्तु विज्ञेयः कृष्णश्चैव भयानकः ।
नीलवर्णस्तु बीभत्सः पीतश्चैवाद्भुतः स्मृतः।।
(स्रोतम्- “नाट्यशास्त्रं षष्ठोऽध्यायः”)