श्रीकृष्ण-सेमवालः आधुनिक-संस्कृत-रचनाकारः

श्रीकृष्ण-सेमवालः

       जन्मपरिचयः शिक्षा च- अस्य संस्कृत-समुपासकस्य जन्म केदारघाट्याः ‘यमुनापुर-(ह्यूण)’ ग्रामे जनवरीमासस्य पञ्चमे दिनाङ्के नवचत्वारिंशदधिकनवदशतमे वर्षे(05-01-1949) अभवत्। कवेरस्य पिता ‘नाथोरामः’ ज्यौतिषशास्त्रस्य तन्त्रशास्त्रस्य च ज्ञाता आसीत्। अस्य मातुर्नाम ‘दीपादेवी’ आसीत्, या सरल-स्वभाव-युक्ता परमसाध्वी तपस्विनी च  आसीत्। कविरयं प्रारम्भिक-शिक्षाया अनन्तरम् ‘उत्तराखण्ड-संस्कृत-विद्यापीठे’ गुप्तकाश्यां संस्कृतस्य पारम्परिकाध्ययनमकरोत्। अस्य गुरुः व्याकरणस्य विद्वान् भास्कराचार्य-मैठाणी आसीद्, यस्य वैदुष्यस्य कीर्तिः सम्पूर्णेऽपि गढ़वाले प्रसृता आसीत्। अयं साहित्यकारः शिक्षाशास्त्रि-विद्यावाचस्पति-उपाधिभ्यां सम्मानितः आसीत्। कविरयं न केवलं लेखनकार्ये कुशलोऽपितु प्रशासनिक-कार्यष्वपि महत्त्वपूर्णभूमिकायाः निर्वहणमकरोत्। अयं संस्कृत-समुपासकः शिक्षा-निदेशालये देहल्यां ‘संस्कृत-अधिकारी’ इत्यस्मिन् पदे तथा दिल्ली-संस्कृत-अकादम्याम् ‘उपाध्यक्ष’ पदेऽपि सेवामकरोत्।

       सम्मानाः- अयं साहित्यकारः विभिन्नविश्वविद्यालयैः विभिन्नसंस्थाभिश्च विभिन्नसाहित्यिकपुरस्कारैः सभाजितो जातः, तद्यथा-

(क). विद्यावाचस्पतेः मानद-उपाधिः

(ख).विशिष्ट-विद्वत्सम्मान-कविरत्नम्

(ग).संस्कृत-सेनापतिः

(घ).देववाणी-प्रचारकः

(ङ).संस्कृतलोकसङ्ग्रह-महारथी 

       कृतित्वम्- कवेरस्य प्रमुखाः प्रकाशिताश्च कृतयो निम्नलिखिताः सन्ति-

  • इन्दिरा-कीर्ति-शतकम्
  • अन्योक्ति-पञ्चाशिका
  • दयानन्द-शतकम्
  • अनुरक्तिपीयूषम्
  • भक्तिरसामृतम्
  • संघे शक्ति कलौ युगे,
  • भीमशतकम्,
  • व्यावहारिक-संस्कृतम्.
  • सर्वमंगलाशतकम्,
  • हिमाद्रिपुत्राभिनन्दनम्,
  • शक्ति-सौरभम्,
  • कालिदास-गरिमा
  • क्रान्तिवीर-विरुदावलिः।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!