श्री पुरुषोत्तम-डोभालः आधुनिक-उत्तराखण्डीय-संस्कृत-रचनाकारः

श्री पुरुषोत्तम-डोभालः

जन्मपरिचयः शिक्षा च-अस्य साहित्यकारस्य जन्म  उत्तराखण्डराज्यस्य ‘टिहरी’ जनपदान्तर्गते बड़ियारगढ़-पट्यां ‘मुसमोला’ नामाभिधेये ग्रामे अगस्तमासे 1925 ई. तमे वर्षेऽभूत्। बाल्यकालादेव संस्कृतं प्रति रुचिकारणाद् अनेन साहित्यकारेण संस्कृतविषये एव शोधकार्यं सम्पाद्य ‘विद्यावारिधिः’ (पी.एच.डी) इत्युपाधिः सम्प्राप्तः। अयं साहित्यकारः ‘राजकीय-डिग्री-कॉलेज- उत्तरकाश्यां’ संस्कृतविभागे व्याख्यातृपदे कार्यमकरोत्।

कृतित्वम्- अस्य साहित्यकारस्य हिन्दी-संस्कृत-गढ़वालीति तिसृषु भाषासु अबाधगतिरासीत्। अनेन साहित्यकारेण स्वरचनाभिः संस्कृतसाहित्यस्य श्रीवृद्धिरपि कृता। अस्य साहित्यकारस्य प्रमुखरचनाः निम्नलिखिताः सन्ति, तद्यथा-

  • वनिता (संस्कृत-उपन्यासः),
  • अभिनन्दनम् (एकाङ्की)
  • उत्सर्गः (नाटकम्),
  • उर्वश्यानृत्यम्
  • कथासङ्ग्रहः

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!