श्री बुद्धिवल्लभः आधुनिक-संस्कृत-रचनाकारः

श्री बुद्धिवल्लभः

 जन्मपरिचयः शिक्षा च-अस्य संस्कृतसमुपासकस्य जन्म उत्तराखण्डराज्यस्य पौड़ीजनपदान्तर्गते पट्टी-तल्ला उदयपुरे ‘आमणी’ नामाभिधेये ग्रामे 1936 ई. तमे वर्षेऽभूत्। अस्य पितुर्नाम ‘पण्डित-रविदत्तः’ मातुर्नाम च ‘शाखा देवी’ आसीत्। साहित्यकारोऽयं बाल्यकालादेव बुद्धिमान् आसीत्। अनेन कविना प्रारम्भिकशिक्षा स्वग्रामनिकटस्थविद्यालयाद् एव स्वीकृता । अनन्तरम् अयं साहित्यकारः  संस्कृतम् अध्ययनार्थं हरिद्वारमगच्छत्। तत्र गत्वा ‘ऋषिकुल-ब्रह्मचर्य-आश्रमे’ हरिद्वारे प्रथमाकक्षातः आरभ्य आचार्यकक्षापर्यन्तं शिक्षामलभत। 1964 ई. तमे वर्षे अनेन ‘विद्यावाचस्पति’ उपाधिः स्वीकृतः। ऋषिकुल-ब्रह्मचर्य-आश्रमात् आचार्यपरीक्षामुत्तीर्य अयं साहित्यकारः अस्मिन्नेव आश्रमे  स्वीयाध्यापनकार्यं प्रारभ्य अत्रैव मुख्याधिष्ठातृपदमलङ्करोत्। अनन्तरं ‘श्रीजगत-देव-संस्कृत- महाविद्यालये’ सप्तऋषि-आश्रमे हरिद्वारे 1996 ई. पर्यन्तं प्रधानाचार्यपदे कार्यमकरोत्।

कृतित्वम्-अनेन रचनाकारेण विरचिताः प्रकाशिताः अप्रकाशिताश्च रचनाः अधोलिखिताः सन्ति, तद्यथा-

  • प्रकाशितरचना- रसकलशी (मुक्तककाव्यम्)
  • अप्रकाशितरचना- उद्धवशतकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!