सुभाषितानि
सप्तमः पाठः
अभ्यासः प्रश्नः
प्रश्नः-1-सस्वरवाचनं कुरुत-
उत्तरम्- छात्र स्वयं करें।
प्रश्न: 2. श्लोकेषु रिक्तस्थानानि पूरयत–
- नमन्ति फलिनो वृक्षाः, नमन्ति गुणिनो जनाः।
शुष्कवृक्षाश्च मूर्खाश्च, न नमन्ति कदाचन ।।
- प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता ।।
प्रश्न: 3. श्लोकांशान् योजयत-
(क) (ख)
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
प्रियवाक्य प्रदानेन। सर्वे तुष्यन्ति जन्तवः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम्
तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः।
प्रश्न: 4. उपयुक्त कथनानां समक्षम् ‘आम्’ अनुपयुक्त-कथनानां समक्ष ‘न’ इति लिखत-
(क)- प्रियवाक्यप्रदानेन सर्वे न तुष्यन्ति। (न)
(ख)- धीमतां कालः काव्यशास्त्रविनोदेन गच्छति (आम्)
(ग)- अभिवादनशीलस्य आयुर्विद्या यशो बलं न वर्धन्ते। (न)
(घ)- गुणिनो जनः नमन्ति। (आम्)
(ङ)- मनोरथैः कार्याणि न सिध्यन्ति | (आम्)
प्रश्न: 5. प्रश्नानाम् उत्तराणि लिखत-
प्रश्न: (क) कार्याणि केन सिध्यन्ति ?
उत्तरम् – कार्याणि उद्यमेन सिध्यन्ति
प्रश्न: (ख) सर्वे जन्तवः केन तुष्यन्ति ?
उत्तरम् – सर्वे जन्तवः प्रिय-वाक्यप्रदानेन तुष्यन्ति।
प्रश्न: (ग) कस्य मुखे मृगाः नहि प्रविशन्ति?
उत्तरम्- सुप्तस्य सिंहस्य मुखे मृगाः नहि प्रविशन्ति।
प्रश्न: (घ) के नमन्ति ?
उत्तरम्- फलिनः वृक्षाः गुणिनः जनाः च नमन्ति।
प्रश्न: (ङ) चत्वारि कस्य वर्धन्ते ?
उत्तरम् – अभिवादनशीलस्य नित्य वृद्धोपसेविनः चत्वारि वर्धन्ते।
प्रश्न: (च) धीमतां कालः कथं गच्छति?
उत्तरम् – धीमतां कालः काव्यशास्त्रविनोदेन गच्छति।