संस्कृत-श्लोक-गायन-स्पर्धा
१. इन्द्रवज्रा
लक्षणम्— स्यादिन्द्रवज्रा यदि तौ जगौ गः।
उदाहरणम्—
अस्त्युत्तरस्यां दिशि देवतात्मा,
हिमालयो नाम नगाधिराजः।
पूर्वापरौ तोयनिधी वगाह्य,
स्थितः पृथिव्या इव मानदण्डः॥
२. वंशस्थ
लक्षणम्— जतौ तु वंशस्थमुदीरितं जरौ।
उदाहरणम्—
निपीय यस्य क्षितिरक्षिणः कथा-
स्तथाद्रियन्ते न बुधाः सुधामपि।
नलः सितच्छत्त्रितकीर्तिमण्डलः
स राशिरासीन्महसां महोज्ज्वलः॥
3.द्रुतविलम्बितः
लक्षणम् – द्रुतविलम्बितमाह नभौ भरौ।
उदाहरणम्-
विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्पटुता युधि विक्रमः।
यशसि चाभिरुचिर्व्यसनं श्रुतौ,
प्रकृतिसिद्धमिदं हि महात्मनाम्।
४. स्रग्विणी
लक्षणम्— रैश्चतुर्भिर्युता स्रग्विणी सम्मता।
उदाहरणम्—
वेदभाभासितं सत्कलालासितं
रम्यसङ्गीतसाहित्यसौहित्यभूः।
भारतीवल्लकीझङ्कृतैर्झङ्कृतं
भूतले भाति मेऽनारतं भारतम्॥ १॥
५. पञ्चचामरम्
लक्षणम्— जरौ जरौ जगाविदं वदन्ति पञ्चचामरम्।
उदाहरणम्—
जटाटवीगलज्जलप्रवाहपावितस्थले।
गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम्।
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं।
चकार चण्डताण्डवं तनोतु नः शिवः शिवम्॥
6.वसन्ततिलका
लक्षणम्– उक्ता वसन्ततिलका तभजाजगौ गः।
उदाहरणम् –
रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः।
इत्थं विचिन्तयति कोशगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार॥
स्रोतम्- शिवराजविजयः
7.मालिनी- छन्दः
लक्षणम्– ननमयययुतेयं मालिनी भोगिलोकैः ।
उदाहरणम्–
सरसिजमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्मलक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥
स्रोतम् – कालिदासविरचितं अभिज्ञानशाकुन्तलनाटकम्।
-
-
- शिखरिणी-छन्दः
-
लक्षणम् – रसैः रूद्रैश्छिन्ना यमनसभलागः शिखरिणी।
उदाहरणम्-
न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो,
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।
न जाने मुद्रास्ते तदपि च न जाने विलपनं,
परं जाने मातस्त्वदनुसरणं क्लेशहरणम्॥1॥
स्रोतम्- देव्यपराधक्षमापनस्तोत्रम्
9.मन्दाक्रान्ता
लक्षणम्- मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद् गुरू चेत्॥
उदाहरणम्-
कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः।
शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः॥
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु।
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु॥
10.शार्दूलविक्रीडितम्
लक्षणम्- सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्॥
उदाहरणम्–
यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया।
कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम्।
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः।
पीड्यन्ते गृहिणः कथन्नु तनयाविश्लेषदुःखैर्नवैः॥
(स्रोतम्-अभिज्ञानशाकुन्तलम्)
note- श्लोकों की पी.डी.एफ फाइल डाउनलोड के लिए यहाँ क्लिक करें-संस्कृत श्लोक गायन स्पर्धा 2026-27