डॉ.जगदीशप्रसाद-सेमवालः
जन्मपरिचयः शिक्षा च- स्वनामधन्यः श्री जगदीश-प्रसादसेमवालः देवभूम्याः उत्तराखण्डस्य ‘रूद्रप्रयाग’ जनपदान्तर्गते गुप्तकाश्यां ‘ह्यूण’ नामाभिधेये ग्रामे वि.सं. 2000(1943 ई.) तमे वर्षे जन्म लेभे। अस्य पितुर्नाम ‘भोलादत्तः’ मातुर्नाम च ‘विजया’ देवी आसीत्। अयं रचनाकारः प्रारम्भिकशिक्षां स्वीये ग्रामे प्राप्य अनन्तरं ‘गुप्तकाशी-संस्कृत-विद्यापीठतः’ पारम्परिकधारायां संस्कृतं पठित्वा मध्यमा-परीक्षामुदतरत्। संस्कृतसमुपासकोऽयम् उच्चशिक्षार्थं वाराणसीमगच्छत्। बनारसहिन्दूविश्वविद्यालयतः ‘शास्री’ ‘आचार्य’ इति उपाधिद्वयम् अलभत। अनन्तरम् अयं काव्यकारः पंजाबविश्वविद्यालयस्य प्राच्यविभागे प्राध्यापकपदमलङ्करोत्। सम्प्रति सेवानिवृत्तोऽयं रचनाकारः पंजाबप्रदेशे निवसति।
कृतित्वम्- अनेन रचनाकारेण स्वरचनामाध्यमेन संस्कृतसाहित्यस्य सततं श्रीवृद्धिः कृता। अनेन कृताः रचनाः निम्नलिखिताः सन्ति।
-
- दशगुरुचरितम्(पञ्चविंशतिसर्गेष्वुपनिबद्धम्,अपूर्णकाव्यम्)
-
- नमामि रामम् रघुवंश-नाथम्(पञ्चदशपद्येषु निबद्धम्)
-
- दुर्गामहास्तोत्रम्
- सुरभारतीक्रन्दनम्
- इन्दुविलासः
- शिवस्तुतिः
- श्रीयक्षराजस्तोत्रम्
- शैलपुत्रीशतकम्
- वसन्तविलासः
- मेघविलासः
- हिमगिरिविलासः
- बिडम्बनाविलासः
- भानुदयविलासः
- प्रभाविलासः
- जयतिजयपुरश्रीः
- यम-नचिकेतकीयम्