आदरणीयाः उपस्थिताः महानुभावाः, पूज्याः गुरवः, प्रिय-सहपाठिनश्च,

सर्वेभ्यो मम सादरं नमस्काराः।

 

अद्य अस्माकं विद्यालये एकः अत्यन्तः भावुकः क्षणः उपस्थितः अस्ति, यद् वयं अस्माकं पूज्यस्य प्रधानाचार्य-महोदयस्य सौप्रस्थानिक(विदाई)-अवसरे अत्र समागताः स्मः। एषः अवसरः न केवलं वियोगस्य, अपितु कृतज्ञतायाः अपि प्रतीकः अस्ति। अस्माकं आदरणीयः प्रधानाचार्य-महोदयः दीर्घकालं यावत् स्व-नेतृत्वेन परिश्रमेण समर्पणेन च अस्माकं विद्यालयं उन्नतिपथे नीतवान्। भवतः मार्गदर्शनेन वयं न केवलं पाठ्यज्ञानम् अपितु जीवनस्य वास्तविक-मूल्यानि ,अनुशासनं, सदाचारं, कर्तव्यनिष्ठाञ्च अधिगतवन्तः।

 

भवतः स्नेहपूर्ण-व्यवहारः अस्माकं सर्वेषां हृदयेषु सदा स्मरणीयः भविष्यति। भवन्तं विना विद्यालयः नूनं किञ्चित् शून्यः इव अनुभूयते।

📜

आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया।

पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च॥

अस्य श्लोकस्य भावः अस्मान् स्मारयति यत् गुरवः अस्माकं जीवनस्य प्रमुखाः मार्गदर्शकाः सन्ति। अस्माकं पूज्य-१प्रधानाचार्यः अपि अस्मान् एतादृशेन मार्गदर्शनेन सुमार्गे प्रेरितवान्।

 

अद्य यद्यपि वयं भवतः सौप्रस्थानिक-कार्यक्रमे दुःखिताः स्मः, तथापि अस्माकं हृदये गर्वो$पि अस्ति—यद् अस्माभिः एतादृशः महान् गुरु: प्राप्तः।

अन्ते वयं सर्वे मिलित्वा भवतः कृते सुखमय-जीवनस्य हार्दिकाः शुभकामनाः प्रेषयामः। भवान् यत्र कुत्रापि गच्छेत्, तत्र सदा यशः, कीर्तिं सम्मानञ्च प्राप्नुयात्—इति अस्माकं प्रार्थना।

🌸 धन्यवादाः।

शुभास्ते सन्तु पन्थानः। 🌸

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!