प्रार्थनापत्रम्
नवमः पाठः
अभ्यास-प्रश्नाः
प्रश्न: 1. उत्तराणि लिखत-
(क) प्रार्थनापत्रं कः कस्मै लिखति ?
उत्तरम्- प्रार्थनापत्रं दीपमाला बेलबालः प्रधानाचार्याय लिखति।
(ख) दीपमाला कस्य कारणेन बहिर्गच्छति?
उत्तरम् – दीपमाला आवश्यककार्येण बहिर्गच्छति।
(ग) प्रार्थनापत्रं कति दिवसानां कृते अस्ति ?
उत्तरम्-प्रार्थनापत्रम् एक-दिवसस्य कृते अस्ति।
(घ) ‘मह्यम्’’ इति शब्दस्य अर्थं किम् ?
उत्तरम्- ‘मह्यम्’’ इति शब्दस्य अर्थः ‘मेरे लिए’ अस्ति।
प्रश्न: 2. रिक्तस्थानानि पूरयत-
सेवायाम्
प्रधानाचार्या,
उच्चतर-माध्यमिक-विद्यालयः,
ऋषिकेशः (उत्तराखण्डः)।
महोदया!
सविनयं निवेदनम् अस्ति यत् अहं गत-दिवसात् ज्वरेण पीडिता अस्मि तथा विद्यालयम् आगन्तुम् असमर्था अस्मि ।
अतः12-8-2015 दिनाङ्कत: 16–08-2015 पर्यन्तम् अवकाशं प्रदाय अनुगृह्णातु।
धन्यवादः भवदीया
(दीपमाला बेलवालः)
षष्ठकक्षायाः छात्रा
दशमः पाठः’ चौराः पलायिताः ‘ पाठ के प्रश्नों के उत्तरों के लिए यहां क्लिक करें-