सुभाषितानि
सप्तमः पाठः
अभ्यास-प्रश्नाः
प्रश्नः-1-सस्वरवाचनं कुरुत-
उत्तरम्-छात्र स्वर सहित सुभाषितों का वाचन करें।
प्रश्न: 2. श्लोकेषु रिक्तस्थानानि पूरयत-
(क) नमन्ति फलिनो वृक्षाः, नमन्ति गुणिनो जनाः।
शुष्कवृक्षाश्च मूर्खाश्च, न नमन्ति कदाचन ।।
(ख) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता ।।
प्रश्न: 3. श्लोकांशान् योजयत-
(क) (ख)
उद्यमेन हि सिध्यन्ति सर्वे तुष्यन्ति जन्तवः ।
प्रियवाक्य प्रदानेन वचने का दरिद्रता।
चत्वारि तस्य वर्धन्ते प्रविशन्ति मुखे मृगाः।
तस्मात् प्रियं हि वक्तव्यं कार्याणि न मनोरथैः।
नहि सुप्तस्य सिंहस्य आयुर्विद्या यशो बलम्।
उत्तराणि-
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
प्रियवाक्य प्रदानेन सर्वे तुष्यन्ति जन्तवः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम्।
तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः।
प्रश्न: 4. उपयुक्त कथनानां समक्षम् ‘आम्’ अनुपयुक्त-कथनानां समक्षं ‘न’ इति लिखत-
यथा- उद्यमेन कार्याणि सिध्यन्ति (आम्)
फलिनो वृक्षाः न नमन्ति। (न)
(क)- प्रियवाक्यप्रदानेन सर्वे न तुष्यन्ति। (न)
(ख)- धीमतां कालः काव्यशास्त्रविनोदेन गच्छति (आम्)
(ग)- अभिवादनशीलस्य आयुर्विद्या यशो बलं न वर्धन्ते। (न)
(घ)- गुणिनो जनः नमन्ति। (आम्)
(ङ)- मनोरथैः कार्याणि न सिध्यन्ति | (आम्)
प्रश्न: 5. प्रश्नानाम् उत्तराणि लिखत-
(क) कार्याणि केन सिध्यन्ति ?
उत्तरम् – कार्याणि उद्यमेन सिध्यन्ति ।
(ख) सर्वे जन्तवः केन तुष्यन्ति ?
उत्तरम्-सर्वे जन्तवः प्रिय-वाक्यप्रदानेन तुष्यन्ति।
(ग) कस्य मुखे मृगाः नहि प्रविशन्ति?
उत्तरम्-सुप्तस्य सिंहस्य मुखे मृगाः नहि प्रविशन्ति।
(घ) के के नमन्ति ?
उत्तरम्- फलिनो वृक्षाः गुणिनो जनाः च नमन्ति।
(ङ) चत्वारि कस्य वर्धन्ते ?
उत्तरम्-चत्वारि ‘अभिवादनशीलस्य नित्यं वृद्धोपसेविनः’ वर्धन्ते।
(च) धीमतां कालः कथं गच्छति?
उत्तरम्-धीमतां कालः काव्यशास्त्रविनोदेन गच्छति।
अष्टमः पाठः ‘उत्तराखण्डस्य इतिहासकारः’ के प्रश्नों के उत्तरों के लिए यहां क्लिक करें-